त्रिपुरसुन्दरीदण्डकम्
दीपकनाथ सिद्ध विरचितम्
Sri Dipaknath is acharya in Sidhaugha of Hadi Vidya tradition of Sri Tripurasundari .
He was disciple of Muktakeshini yogini . He was also among famous navaratnas of King Bhoja in 10th century . His only survived work is Tripurasundari dandak . Dandak is type of text mixed with poem & prose . In this dandak he explains inner and outer worship of Tripurasundari in beautiful lines of description .
These are pre Vedanta influence texts of Sri Vidya . You will not find in here any influence of Brahma tatwa vichara , vivarta vada or any Sankara muth interpolation .
This is pure Sri Vidya of thousand year before our times and just few centuries after her arrival in Kashmir .
जयति निजसुधाम्भस्संभवा वाग्भवश्री
रथ सरससमुद्यत्कामतत्त्वानुभावा।
तदनु परमधामध्यानसंलक्ष्यमोक्षा
रविशशिशिखिरूपा त्रैपुरी मन्त्रशक्तिः ॥ १ ॥
जयजयजगदेकमातर्नमश्चन्द्रचूडेन्द्रसोपेन्द्रपद्मोद्भवोष्णांशुशीतांशु
शिखिपवनयमधनददनुजेन्द्रपतिवरुणप्रमुखसकलसुरमुकुटमणिनिचयकरनिकर-
परिजनितपुरविविधरुचिरुचिरकुसुमचयबुद्धिलुब्धभ्रमभ्रमरमालानिनादानुगत
मञ्जुशिञ्जानमञ्जीरकलकनकमयकिङ्किणीक्वाणयन्नृत्यदुद्दामनिभृतपदललित-
किङ्करालङ्कृतसुचक्रमणलीले सुलीले स्थलाम्भोजनिभचरणनखरत्न
कान्तिच्छलेन हरनयनहव्याशनप्रतिकृतानङ्गविजयश्रियाऽसौ भवत्या भवेनेव
शरणागतः पादमूले समालीन इ (वा) लक्ष्यते सुलक्ष्यते ललितलावण्यतरुकन्दली
सुभगजङ्घालते चिल्लते ॥२ ॥
गलितकलधौतप्रभोरु ते विद्युदुद्योतमाणि
बन्धोज्ज्वलानर्घकाञ्चीकलापानुसंयमितसुनितम्बबिम्बस्थले सुस्थले ॥ ३ ॥
स्मरद्विरदपरिरचितनवरोमराज्यकुशे निरङ्कुशे ॥ ४ ॥
दक्षिणावर्तनाभिभ्रमत्त्रिवलीतटपरिलुठितललितलावण्यरससुरतनिम्नगा
भूषितसुमध्यदेशे सुदेशे स्फुरत्तारहारावलीगगनगङ्गातरङ्गव्रजालिङ्गितो.
तुङ्गनिबिडस्तनसौवर्णगिरिशिखरयुग्मे अयुग्मे उमे ॥ ५ ॥
मुरारिकरकम्बुरेखानुगतकण्ठपीठे सुपीठे लसत्सरलसविलासभुज
युगलपरिहसितनवकोमलमृणाले सुनाले ॥ ६ ॥
महार्हमणिवलयजमयूखचयमांसनि करकमलनखरत्नकिरणे जितरणे
सुकरणे सुशरणे ॥ ७ ॥
स्फुरत्पद्मरागेन्द्रमणिकुण्डलोल्लसितकान्तिच्छटोच्छुरितगण्डस्थलीरचित
कस्तूरिकापत्ररेखासमुद्घातसुधानाथगाण्डीवशोभे सुशोभे ॥ ८ ॥
महासिद्धगन्धर्वगणकिन्नरीतुम्बुरुप्रमुखवररचितवरविविधपदमङ्गला
नङ्गसङ्गीतसुखश्रवणसम्पूर्णकर्णे जय स्वामिनि ॥ ९ ॥
शशिशकलसुगन्धिताम्बूलपरिपूर्णमुखि सुमुखि ॥ १० ॥
बालप्रवालप्रभाधरदलोपान्तविश्रान्तदन्तद्युतिद्योतिताशोकनवपल्लवासक्त
शरदिन्दुकरनिकरसान्द्रप्रभे सुप्रभे देवि ॥ ११ ॥
विश्वकर्मा निर्माणविधिसूत्रसुस्पष्टनासाग्ररेखे सुरेखे ॥ १२ ॥
कपोलतलकान्तिविभवेन न विभान्ति नश्यन्ति यान्ति धावन्ति
तेजांसि च तमांसि च विमलतरतरलतरतारकानङ्गलीलाविलासोल्लसत्कर्ण
मूलान्तविश्रान्तविपुलेक्षणाक्षेपविक्षिप्तरुचिरचितनवकुन्दनीलाम्बुजप्रकरपरि
भूषिताशावकाशे सुकाशे ॥ १३ ॥
चलद्भूलताविजितकन्दर्पकोदण्डभङ्गे सुभङ्गे ॥ १४ ।।
मिलन्मध्यमृगनाभिमयबिन्दुपदचन्द्रतिलकायमानेक्षणालङ्कृतार्धेन्दुरो
चिल्लाटे सुललाटे ॥ १५ ॥
लसद्वंशमणिजालकान्तरितवरचलत्कुन्तलान्तानुगतकुन्दमालानुषक्त
भ्रमभ्रमरपके सुपके ॥ १६ ॥
वहदहलपरिमलमनोहारिनवमालिकामल्लिकामालतीकेतकीचम्पकेन्दीव
रोदारमन्दारमालानुसंग्रथितधम् ल्लमूर्द्धावनद्धेन्दुकरसञ्चयोऽयं गगन
तलसञ्चरोऽयं यशश्छत्ररूपः सदा दृश्यते ते शिवे ।। १७ ।।
यस्य मधुरस्मितज्योतिषा पूर्णहरिणाङ्कलक्ष्मीः क्षणाक्षेपं
विक्षिप्यते तस्य मुखपुण्डरीकस्य कविभिः कदा कोपमा केन कस्मिन्
कथं दीयते ।। १८ ॥
' सुस्फुटस्फटिकघटिताक्षसूत्रनक्षत्रचयचक्रपरिवर्तनविनोदसन्दर्शितनिशा
समयचारे सुचारे महाज्ञानमयपुस्तकं हस्तपद्मेऽत्र वामे दधत्या भवत्या तदा
सुस्फुटं वाममार्गस्य सर्वोत्तमत्वं समुपदिश्यते ॥ १ ९ ॥
दिव्यमुखसौरभे योगपर्यङ्कबद्धासने सुवदने सुरसने सुदर्शने सुमदने
सुहसने सुरेशि जननि तुभ्यं नमो जय जननि तुभ्यं नमो जय जननि
तुभ्यं नमः ॥ २० ॥
अ इ उ ऋ लु इति लघुतया तदनु दैर्येण पञ्चैव योनिस्तथा वाग्भवं
प्रणव औ बिन्दुरः क ख ग घ ङ च छ ज झ ट ठ ड ढ ण त थ द
ध न प फ ब भ म य र ल व श ष स ह ळेति सुबद्धरुद्रात्मिकाममृत
करकिरणगणवर्षिणीं मातृकामुगिरन्ती हसन्ती लसन्ती वसन्ती सदा तत्र
कमलवनभवनभूमौ भवन्ती भञ्जिनी सभूर्भुवः
स्वर्भुवनमूर्ती भव्ये सुभव्ये सुकाव्ये ॥ २१ ।।
सुकृतिना येन सम्भाव्यसे तस्य जर्जरितजरसो विरजसोऽपि पुत्री
कृतार्कस्य सत्तकंपदवाक्यागमवेदवेदाङ्गवेदान्तसिद्धान्तसौरशैवादिवैष्णव
पुराणेतिहासस्मृतिगारुडभूततन्त्रस्वरोदयज्योतिषायुर्वेदनानाख्यान पातालशास्त्रार्थमन्त्रशिक्षादिकं विविधविद्याकुलं लिखितपदगुम्फसम्बन्धरस
सत्कान्तिसोदारभणितप्रबन्धप्रभार्थसमालङ्कृताशेषभाषामहाकाव्यलीलोदया
सिद्धिरुपया सद्योऽम्बिके ।। २२ ॥
वाग्भवेनैकेन वाग्देवि वागीश्वरो जायते। किल कामाक्षरेण
सकृदुच्चरितेनैव तव साधको बाधको भवति भुवि सर्वशृङ्गारिणां तन्नयन
पथपतितनेत्रनीलोत्पला झटिति यदि सिद्धगन्धर्वगणसुन्दरीललितवरविद्या
धरो वासुरी वामरी वा महीनाथनाथाङ्गना वा ज्वलन्मदननगरशरनिकर
दलितसंक्षोभिता निगडीतेव ज्वलितेव स्खलितेव मुषितेव संपद्यते।
शक्तिबीजैकसन्ध्यायिनां योगिनां भोगिनां वैनतेयायते दाहिनाममृतमेधायते
दुस्सहविषाणां निशानाथचूडायते। ध्यायते धार्यते येन बीजत्रयं तस्य नाम्नैव
पशुपाशमलपञ्जरं त्रुटयति तदाज्ञया सिद्धयति च ' गुणाष्टकं भक्तिभाजां
महाभैरवींकवलितसकलतत्त्वात्मिके सुस्वरूपे सुरूपे परिणतशिवायां
त्वयि तदा कः परः शिष्यते का क्रिया शिष्यते यदि त्वद्भक्तिहीनस्य तत्त्वस्य
कार्थक्रियाकारिता तदिति तस्मिन् विधौ तस्य किं धाम किं नाम किं
कर्म किं शर्म किं नर्म किं वर्म किं धर्म का गतिः का रतिः का मतिः किं
वर्जनीयं च ॥ २३ ॥
' झटिति यदि सर्वशून्यान्तर्भूमौ निजेच्छासमुन्मेषसमयं समासाद्य
बालार्कीवालाग्रकोटयं विगर्भीकृताशेषसंसारबीजाऽनुबध्नासि
तदा त्वम म्बिका गीयसे। तदनु परिजनितकुटिलाग्र
तेजोऽङ्कुरा जननि वामेति संस्तूयसे। ततः स्पष्टरेखा शिखा ज्येष्ठेति
संभाव्यसे। सैव शृङ्गाटकाकारतामागता तदा रौद्रीति
विख्याप्यसे ॥ २४ ॥
ताश्च वामादिकास्त्वत्कलास्त्रीन् गुणान् सन्दधत्यः क्रियाज्ञानचयवाञ्छा
स्वरूपाः क्रमात् तामरसजन्ममधुमथनपुरवैरिणां बोजभावं भजन्त्यः सृजन्त्य
स्त्रिभुवनं त्रिपुरसुन्दरीति तेन सङ्कीयंसे ॥ २५ ॥
तत्र शृङ्गाटपीठोल्लसत्कुण्डलोकाकलापा कुलात्प्रोल्लसन्ती सगन्धी
शिवाकं समास्कन्ध चान्द्रं महामण्डलं द्रावयन्ती पिबन्ती सुधां कुलवधूः
कुलं परित्यज्य परपुरुषकुलीनमवलम्ब्य विश्वं परिभ्राम्य सर्वस्वमाक्रम्य
तेनैव मार्गेण निजकुलनिवासं समागत्य सन्तुष्यसीति प्रियः कः पतिः कः प्रभुः
कोऽस्तु तेनैव जानीमहे हे महेशानि रमसे च कामेश्वरी कामगिर्यालयेऽनङ्ग
कुसुमादिभिः सेविता तदुपरि जालन्धरपीठे वज्रपीठेषु वज्रेश्वरी परिजना
नटयसि पुनः पूर्णगिरिगह्वरे नग्नवसनाचिते भगमालिनी विलससि देवि
ज्वलन्मदनशरनिकरमधुविकसितसमदमधुकरकदम्बविपिनविभवे भगवति
श्रीत्रिपुरसुन्दरि श्रीओड्याणपीठे नमस्ते नमस्ते नमस्ते नमस्ते शिवे ॥२६ ॥
इति त्रिपुरसुन्दरीचरण
महाप्रणतिदीपकं त्रिपुरसुन्दरीदण्डकम्।
इमं भजति भक्तिमान् पठति यः सुधीः साधकः
स चाष्टगुणसम्पदां भवतु भाजनं सर्वदा ॥२७ ॥
सौधाम्बुधाव रुणपोतसुवर्णशैल
कादम्बदिव्यवनमध्य वर्णभूमौ।
भास्वद्विचित्रमणिमण्डपदिव्यपीठ
मध्यस्थितां भुवनमातरमाश्रयामि ॥ २८ ॥
ब्रह्मेन्द्ररुद्रहरिचन्द्रसहस्ररश्मि
स्कन्दद्विपाननहुताशनवन्दितायै।
वागीश्वरि त्रिभुवनेश्वरि विश्वमात
रन्तर्बहिश्च कृतसंस्थितये नमस्ते ॥ २ ९ ॥
इति दीपकनाथ सिद्ध विचितं
त्रिपुरसुन्दरीदण्डकं समाप्तम् ॥
Copyright © 2020 Vama Path of Shakti - All Rights Reserved.